|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.88. अध्यायः 088
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
पूर्वमन्तर्हितेन घ्यवनेन कुशिकम्प्रति पुनः शयने प्रस्वपत आत्मनः प्रदर्शनम्॥ 1 ॥ पुनरुत्थितेन मुनिना राजानम्प्रति आत्मनस्तैलाभ्यञ्जननियोजनेन स्नानशालायां पुनरन्तर्धानम्॥ 2 ॥ पुनराविष्कृतात्मना तेन सभार्यस्य राज्ञो रथधुरि संयोजनपूर्वकं याचकेभ्यस्तदीयवित्तादिवितरणेन वीथ्यां रथेन निर्गमनम्॥ 3 ॥ स्वीयप्रतोदताडनेऽप्यविकृतमानसे सभार्ये कुशिके प्रसीदता मुनिना वरदानेन तस्य स्वगृहप्रेषणम्॥ 4 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा।
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह॥ 13-88-1(84935)
भीष्म उवाच। 13-88-2x(7072)
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया।
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः॥ 13-88-2(84936)
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन।
तदेव चिन्तयामास च्यवनस्य विचेष्टितम्॥ 13-88-3(84937)
अथ शून्येन मनसा प्रविवेश गृहं नृपः।
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम्॥ 13-88-4(84938)
विस्मितौ तमृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च।
दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूवतुः॥ 13-88-5(84939)
यथास्थानं ततो गत्वा तत्पादौ संववाहतुः।
अथापरेण पार्श्वेन सुष्वाप स महामुनिः॥ 13-88-6(84940)
तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान्।
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ॥ 13-88-7(84941)
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते।
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत॥ 13-88-8(84942)
तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ।
शतपाकेन तैलेन महार्हेणोपतस्थतुः॥ 13-88-9(84943)
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः।
न च पर्याप्तमित्याह भार्गवः सुमहातपाः॥ 13-88-10(84944)
यदा तौ निर्विकारौ तु लक्षमायास भार्गवः।
तत उत्थाय सहसा स्नानशालां विवेश ह॥ 13-88-11(84945)
क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्।
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत॥ 13-88-12(84946)
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा।
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ॥ 13-88-13(84947)
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः।
दर्शयामास कुशिकं सभार्यं कुरुनन्दन॥ 13-88-14(84948)
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्।
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत्॥ 13-88-15(84949)
आनीयतामिति मुनिस्तं चोवाच नराधिपम्।
स राजा समुपाजह्रे तदन्नं सह भार्यया॥ 13-88-16(84950)
मांसप्रकारान्विविधाञ्शाकानि विविधानि च।
लेह्यपिष्टविकारांश्च पानकानि लघूनि च॥ 13-88-17(84951)
रसालापूपकांश्चित्रान्मोदकानथ षड्रसान्।
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम्॥ 13-88-18(84952)
फलानि च विचित्राणि राजभोज्यानि भूरिशः।
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च॥ 13-88-19(84953)
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्।
सर्वमाहारयामास राजा शापभयान्मुनेः॥ 13-88-20(84954)
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्।
ततः सर्वं समानीय तच्च शय्यासनं मुनिः॥ 13-88-21(84955)
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह।
सर्वमादीपयामास च्यवनो भृगुनन्दनः॥ 13-88-22(84956)
न च तौ चक्रतुः क्रोधं दम्पती सुमहाव्रतौ।
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत्॥ 13-88-23(84957)
तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा।
सभार्यो वाग्यतः श्रीमान्न चकोपं समाविशत्॥ 13-88-24(84958)
नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि॥
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः॥ 13-88-25(84959)
वस्त्रं च विविधाकारमभवत्समुपार्जितम्।
न शशाक ततो द्रष्टमन्तरं च्यवनस्तदा॥ 13-88-26(84960)
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्।
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्॥ 13-88-27(84961)
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्।
क्रीडारथोस्तु भगवन्नुत साङ्ग्रामिको रथः॥ 13-88-28(84962)
इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः।
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्॥ 13-88-29(84963)
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः।
सायुधः सपताकश्च शक्तीकनकयष्टिमान्॥ 13-88-30(84964)
किंकिणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः।
गदास्वङ्गनिबद्धश्च परमेषुशतान्वितः॥ 13-88-31(84965)
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्।
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा॥ 13-88-32(84966)
त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्।
सर्वमेतत्तथा दत्त्वा नृपो वाक्यमऽथाब्रवीत्॥ 13-88-33(84967)
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन।
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः॥ 13-88-34(84968)
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम्।
इतः प्रभृति यातव्यं पदकम्पदकं शनैः॥ 13-88-35(84969)
श्रमो मम यथा न स्यात्तथा मच्छन्दचारिणौ।
सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु॥ 13-88-36(84970)
नोत्सार्याः पथिकाः केचित्तेभ्योदास्ये वसु ह्यहम्।
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्तिमां पथि॥ 13-88-37(84971)
सर्वान्दास्याम्यशेषेण धनं रत्नानि चैव हि।
क्रियतां निखिलेनैतन्मा विचारय पार्थिव॥ 13-88-38(84972)
तस्य तद्वचनं श्रुत्वा राजा भृत्यांस्तथाऽब्रवीत्।
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः॥ 13-88-39(84973)
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्।
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः॥ 13-88-40(84974)
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः।
हाहाभूतं च तत्सर्वमासीन्नगरमार्तवत्॥ 13-88-41(84975)
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ।
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः॥ 13-88-42(84976)
वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ।
कथंचिदूहतुर्धैर्याद्दम्पती तं रथोत्तमम्॥ 13-88-43(84977)
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम्।
ददृशाते महाराज पुष्पिताविव किंशुकौ॥ 13-88-44(84978)
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः।
अभिशापभयत्रस्तो न तं किञ्चिदुवाच ह॥ 13-88-45(84979)
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम्।
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शुक्नुमः॥ 13-88-46(84980)
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः।
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम्॥ 13-88-47(84981)
श्रान्तावपि हि कच्छ्रेण रथमेनं समूहतुः।
न चैतयोर्विकारं वै ददर्शं भृगुनन्दनः॥ 13-88-48(84982)
भीष्म उवाच। 13-88-49x(7073)
ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः।
वसु विश्राणयामास यथा वैश्रवणस्तथा॥ 13-88-49(84983)
तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत्।
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः॥ 13-88-50(84984)
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह।
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह॥ 13-88-51(84985)
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया।
ददामि वां वरं श्रेष्ठं तं ब्रूतामिति भारत॥ 13-88-52(84986)
सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसतम॥ 13-88-53(84987)
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह।
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेह भार्गव॥ 13-88-54(84988)
अथ तौ भगवान्प्राह प्रहृष्टश्च्यनस्तदा।
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति॥ 13-88-55(84989)
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्।
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव॥ 13-88-56(84990)
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि।
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप॥ 13-88-57(84991)
न च मन्युस्त्वया कार्यः श्रेयस्त्वां समुपस्थितम्।
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति॥ 13-88-58(84992)
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना।
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्॥ 13-88-59(84993)
न मे मन्युर्महाभाग पूतौ स्वो भगवंस्त्वया।
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ॥ 13-88-60(84994)
प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः।
तान्न पश्यामि गात्रेषु स्वस्थोस्मि सह भार्यया॥ 13-88-61(84995)
इमां च देवीं पश्यामि वपुषाऽप्सरसोपमाम्।
श्रिया परमया युक्ता तथा दृष्टा पुरा मया॥ 13-88-62(84996)
तव प्रसादसंवृत्तमिदं सर्वं महामुने।
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम॥ 13-88-63(84997)
इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा।
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप॥ 13-88-64(84998)
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्।
प्रययौ वपुषा युक्तो नगरं देवराजवत्॥ 13-88-65(84999)
तत एनमुपाजग्मुरमात्याः सपुरोहिताः।
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा॥ 13-88-66(85000)
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्।
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः॥ 13-88-67(85001)
ततः प्रविश्य नगरं कृत्वा पौर्वाह्णिकीः क्रियाः।
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः॥ 13-88-68(85002)
ततस्तु तौ नवमभिवीक्ष्य यौवनं
परस्परं विगतजराविवामरौ।
ननन्दतुः शयनगतौ वपुर्धरौ
श्रिया युतौ द्विजवरदत्तया तदा॥ 13-88-69(85003)
अथाप्युषिर्भृगुकुलकीर्तिवर्धन-
स्तपोधनो वनमभिराममृद्धिमत्।
मनीषया बहुविधरत्नभूषितं
ससर्ज यन्न पुरि शतक्रतोरपि॥ ॥ 13-88-70(85004)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाशीष्टितमोऽध्यायः॥ 88 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|